|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.167. अध्यायः 167
Mahabharata - Vana Parva - Chapter Topics
इन्द्रेण सभ्रातृकं युधिष्ठिरमेत्य जयाशीः संसनपूर्वकं पुनः स्वर्गंप्रति गमनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-167-0x(2307)(22362)
[ततो रजन्यां व्युष्टायां धर्मराजं युधिष्ठिरम्।
भ्रातृभिः सहितः सर्वैरवन्दत धनंजयः ॥] 3-167-1(22363)
एतस्मिन्नेव काले तु सर्ववादित्रनिःखनः।
बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् ॥ 3-167-2(22364)
रथनेमिखनश्चैव घण्टाशब्दश्च भारत।
पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः ॥ 3-167-3(22365)
`रवोन्मुखास्ते ददृशुः प्रीयमाणाः कुरूद्वह।
मरुद्भिरन्वितं शक्रमापतन्तं विहायसा' ॥ 3-167-4(22366)
ते समन्तादनुययुर्गन्धर्वाप्सरसस्तथा।
विमानैः सूर्यसंकाशैर्देवराजमरिंदमम् ॥ 3-167-5(22367)
ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम्।
मेघनादिनमारुह्य श्रिया परमया ज्वलन् ॥ 3-167-6(22368)
पार्थानभ्याजपामाशु देवराजः पुरंदरः।
आगत्य च सहस्राक्षो रथादवरुरोह वै ॥ 3-167-7(22369)
तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः।
भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् ॥ 3-167-8(22370)
पूजयामास चैवाथ विधिवद्भूरिदक्षिणः।
यथार्हममितात्मानं विधिदृष्टेन कर्मणा ॥ 3-167-9(22371)
धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम्।
भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः ॥ 3-167-10(22372)
आघ्राय तं महातेजाः कुन्तीपुत्रो युधिष्ठिरः।
धनंजयभिप्रेक्ष्यविनीतं स्थितमन्तिके ॥ 3-167-11(22373)
जटिलं देवराजस्य तपोयुक्तमकल्मषम्।
हर्षेण महताऽऽविष्टः फल्गुनस्याथ दर्शनात्।
बभूव परमप्रीतो देवराजं च पूजयन् ॥ 3-167-12(22374)
तं तथाऽदीनमनसं राजानं हर्,संप्लुतम्।
उवाच वचनं धीमान्धर्मराजं पुरंदरः ॥ 3-167-13(22375)
त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव।
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम् ॥ 3-167-14(22376)
अस्त्राणि लब्धानि च पाण्डवेन
सर्वाणि मत्तः प्रयतेन राजन्।
कृतप्रियश्चास्मि धनंजयेन
जेतुं न शक्यस्त्रिभिरेष लोकैः ॥ 3-167-15(22377)
एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम्।
जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः ॥ 3-167-16(22378)
धनेश्वरगृहस्थानां पाण्डवानां समागमम्।
शक्रेण य इदं विद्वानधीयीत समाहितः ॥ 3-167-17(22379)
संवत्सरं ब्रह्मचारी नियतः संशितव्रतः।
स जीवेद्धि निराबाधः सुसुखी शरदां शतम् ॥ 3-167-18(22380)
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-167-3 भुजङ्गव्याघ्रसिंहानां इति थ. पाठः ॥ 3-167-6 हरिभिर्युक्तं रथम् ॥ 3-167-9 अमितात्मा अमितबुद्धिः ॥ 3-167-15 कृतप्रियः शत्रुवधेन। सर्वाणि भत्तो गिरिशाच्च देवात् इति थ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|